निर्लिप्तभावेन प्रशासनम्

निर्लिप्तभावेन प्रशासनम्

From बालमोदिनी by सम्भाषणसन्देशः

April 22, 2026 · 3 min · Episode 537

About this episode

The episode discusses the significance of Shivaji's devotion to his Guru and the adoption of the saffron flag as a symbol of self-rule and good governance.

व्यासपूजादिने गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । राजा शिवराजः अपि तत्र आगत्य साष्टाङ्गप्रणामं कृत्वा एकं कागदं स्थालिकां संस्थाप्य गुरुदेवस्य पुरतः‌ अस्थापयत् । तत्र लिखितम् आसीत् 'मम राजपदवीं, राज्यं, सम्पत्तिं च गुरुदेवस्य पदतले अर्पितम् अस्ति' इति । सः संन्यासी भूत्वा गुरोः सेवां कर्तुम् इच्छति स्म । तदा गुरुः अवदत् 'स्वराज्यं सुराज्यं क्रियताम् । संन्यासिनः यः‌ मनोभावः तेनैव निर्लिप्तमनोभावेन कार्यं क्रियताम् । तस्य सङ्केतरूपेण राज्यध्वजः काषायवर्णीयः भवतु' इति । तस्मात् दिनात् शिवराजप्रशासनस्य ध्वजः काषायवर्णीयः जातः । सः एव भगवद्-ध्वजः इति निर्दिश्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) On the day of Vyasa Puja, devotees came to the ashram of Guru Ramdas to offer their respects. King Shivaji also arrived, bowed fully, and placed a paper before the Guru. It read: “I place my throne, kingdom, and wealth at the feet of my Guru.” Shivaji wished to renounce and serve as a monk. The Guru then said: “Let your kingdom become Swarajya (self rule) and Surajya (good governance). Perform your duties with the same detachment as a monk. As a symbol of this spirit, let…

People in this episode

Host: सम्भाषणसन्देशः

Topics covered

  • devotion
  • self-rule
  • detachment
  • spirituality
  • governance

Keywords

  • Shivaji
  • Guru Ramdas
  • saffron flag
  • detachment
  • self-rule
  • devotion
  • Bhagavad-dhvaja

Mentioned in this episode

Organizations: गुरु

Books & works: भगवद्-ध्वजः

More episodes of बालमोदिनी

Explore listener stats, chart rankings, contacts and more on the बालमोदिनी podcast page.