पुत्रात् ख्याता इतरा

पुत्रात् ख्याता इतरा

From बालमोदिनी by सम्भाषणसन्देशः

April 29, 2026 · 4 min · Episode 544

About this episode

The episode narrates the story of Mahidasa, who, despite neglect from his father, gains divine knowledge and honors his mother through his scholarly work.

मण्डूकमुनि-इतरयोः पुत्रः महीदासः सर्वदा द्वादशाक्षरमन्त्रं जपन् लौकिककर्मसु अनासक्तिं वहति स्म । अतः महीदासे इतरायां च मुनेः अनादरः प्रवृद्धः । खिन्ना इतरा पुत्रेण सह अन्यत्र वासम् आरब्धवती । कदाचित् जपेन सन्तुष्टः विष्णुः महीदासस्य स्वप्नम् आगत्य 'गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति' इति अवत् । तथैव ज्ञानं सम्पाद्य ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः अरचयत् । 'मम माता पत्युः उपेक्षाम् अनुभवन्ती, प्रतिकूलस्थितौ अपि मह्यं सत्संस्कारदाने बद्धादरा आसीत् । अतः इतः परं मया रचितः ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिष्टः भवतु' इति अवदत् महीदासः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Mahidasa, son of Mandukamuni and Itara, constantly recited the twelve syllable mantra and remained detached from worldly duties. Because of this, his father neglected him, and his mother, distressed, went to live elsewhere with her son. One day, Lord Vishnu, pleased with Mahidasa’s devotion, appeared in his dream and blessed him: “Without a teacher’s instruction, you shall gain complete knowledge of the Vedas and Vedangas.” Indeed, Mahidasa attained such wisdom and composed a commentary on the Rigveda and a Brahmana…

People in this episode

Host: सम्भाषणसन्देशः

Topics covered

  • devotion
  • spirituality
  • family values
  • knowledge
  • Vedic texts

Keywords

  • महिदास
  • मण्डूकमुनि
  • इतरः
  • विष्णुः
  • ऋग्वेद
  • ऐतरेयब्राह्मण
  • ज्ञान
  • भक्ति

Mentioned in this episode

Books & works: ऋग्वेदभाष्य, ऐतरेयब्राह्मण

More episodes of बालमोदिनी

Explore listener stats, chart rankings, contacts and more on the बालमोदिनी podcast page.