
About this episode
The episode narrates a story highlighting the folly of amassing wealth without spiritual awareness.
ध्यानचन्दः वणिक् चेदपि सः जिज्ञासुः भगवद्भक्तः च आसीत् । कदाचित् नगरस्य महाश्रेष्ठी लक्ष्मीपतिः तं गृहम् आहूय तस्य शिरसि एकं शिरस्त्रं निधाय अवदत् 'एतत् महामूर्खाय दातुं कारितम्' इति । ध्यानचन्दः प्रतिवचनं किमपि न अवदत् । अथ कदाचित् लक्ष्मीपतिः अस्वस्थः जातः । तदा ध्यानचन्दः आगत्य तत् शिरस्त्रं लक्ष्मीपतेः शिरसि स्थापयित्वा अवदत् 'परलोकं प्रति किमपि नेतुं न शक्यते इति जानता अपि भवता आजीवनं प्रभूतं धनं सम्पादितम् । किन्तु इदानीं न धनम् उपकरोति, न वा उपकुर्वन्ति बान्धवपुत्रपत्न्यादयः । अतः मत्तः अपि श्रेष्ठः मूर्खः भवान् एव' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Dhyānachanda, though a merchant, was also a seeker and devotee of God. Once, the wealthy chief Lakshmipati called him home, placed a head-ornament on his head, and mocked: “This was made to be given to the greatest fool.” Dhyānachanda remained silent. Later, when Lakshmipati fell ill, Dhyānachanda came and placed the same ornament on his head, saying: “Though you know nothing can be carried to the next world, you spent your life amassing wealth. Now neither riches help you, nor do relatives or family. Therefore, you are a greater fool than I.”
People in this episode
Host: सम्भाषणसन्देशः
Topics covered
- foolishness
- wealth
- spirituality
- devotion
- life lessons
Keywords
- ध्यानचन्दः
- लक्ष्मीपतिः
- wealth
- fool
- devotion
- spirituality
- life lessons
More episodes of बालमोदिनी
- अप्रतिमशूरः बघेलसिंहः · June 13, 2026 · 4 min
- धीरः रघुपतिसिंहः · June 12, 2026 · 4 min
- शूरा रत्नावली · June 11, 2026 · 3 min
- उदारम् आचरणम् · June 10, 2026 · 3 min
- जितेन्द्रियता · June 9, 2026 · 3 min
- कः आरोग्यसम्पन्नः ? · June 8, 2026 · 3 min
Explore listener stats, chart rankings, contacts and more on the बालमोदिनी podcast page.